|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.112. अध्यायः 112
Mahabharata - Adi Parva - Chapter Topics
विचित्रवीर्यभार्ययोरम्बिकाम्बालिकयोः पुत्रोत्पादनाय सत्यवत्या नियुक्तेन भीष्मेण तदनङ्गीकारः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-112-0x(681)(4988)
ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी।
पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत॥ 1-112-1(4989)
समाश्वास्य स्नुषे ते च भर्तृशोकनिपीडिते।
धर्मं च पितृवंशं च मातृवंशं च भामिनी।
प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत्॥ 1-112-2(4990)
`दुःखार्दिता तु सा देवी मज्जन्ती शोकसागरे।
शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः।'
त्वयि पिण्डश्च कीर्तिश्च संतानश्च प्रतिष्ठितः॥ 1-112-3(4991)
`भ्राता विचित्रवीर्यस्ते भूतानामन्तमेयिवान्।'
यथाकर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्।
यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः॥ 1-112-4(4992)
वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च।
विविधास्त्वं श्रुतीर्वेत्थ वेदाङ्गानि च सर्वशः॥ 1-112-5(4993)
व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये।
प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव॥ 1-112-6(4994)
तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर।
कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि॥ 1-112-7(4995)
मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते।
बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ॥ 1-112-8(4996)
इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे।
रूपयौवनसंपन्ने पुत्रकामे च भारत॥ 1-112-9(4997)
तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः।
मन्नियोगान्महाबाहो धर्मं कर्तुमिहार्हसि॥ 1-112-10(4998)
राज्ये चैवाभिषिच्यस्व भारताननुशाधि च।
दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान्॥ 1-112-11(4999)
वैशम्पायन उवाच। 1-112-12x(682)
तथोच्यमानो मात्रा स सुहृद्भिश्च परन्तपः।
इत्युवाचाथ धर्मात्मा धर्म्यमेवोत्तरं वचः॥ 1-112-12(5000)
असंशयं परो धर्मस्त्वया मातरुदाहृतः।
त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै परां॥ 1-112-13(5001)
जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे।
स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः॥ 1-112-14(5002)
परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः।
यद्वाऽप्यधिकमेताभ्यां न तु सत्यं कथंचन॥ 1-112-15(5003)
त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः।
ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत्॥ 1-112-16(5004)
प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम्।
त्यजेच्छब्दं तथाऽऽकाशं सोमः शीतांशुतां त्यजेत्॥ 1-112-17(5005)
विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट्।
न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथंचन॥ 1-112-18(5006)
`तन्न जात्वन्यथा कुर्यां लोकानामपि संक्षये।
अमरत्वस्य वा हेतोस्त्रैलोक्यस्य धनस्य च॥' 1-112-19(5007)
एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा।
माता सत्यवती भीष्ममुवाच तदनन्तरम्॥ 1-112-20(5008)
जानामि ते स्थितिं सत्ये परां सत्यपराक्रम।
इच्छन्सृजेथास्त्रींल्लोकानन्यांस्त्वं स्वेन तेजसा॥ 1-112-21(5009)
जानामि चैवं सत्यं तन्मदर्थे यच्च भाषितम्।
आपद्धर्मं त्वमावेक्ष्य वह पैतामहीं धुरम्॥ 1-112-22(5010)
यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत्।
सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप॥ 1-112-23(5011)
`आत्मनश्च हितं तात प्रियं च मम भारत।'
लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम्।
धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम्॥ 1-112-24(5012)
राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः।
सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते॥ 1-112-25(5013)
शान्तनोरपि संतानं यथा स्यादक्षयं भुवि।
तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम्॥ 1-112-26(5014)
श्रुत्वा तं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः।
आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च॥ ॥ 1-112-27(5015)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्वादशाधिकशततमोऽध्यायः॥ 112 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-112-11 अभिषिच्यस्व अभिषेचय। आत्मानमिति शेषः। कुरु अङ्गीकुरु। मा निमज्जीर्मा निमज्जय॥ 1-112-14 त्वदन्तरेत्वन्निमित्तम्॥ 1-112-20 भूरिद्रविणतेजसा बहुबलोत्साहवता॥ द्वादशाधिकशततमोऽध्यायः॥ 112 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|